List of Blogs with Contents

Get this widget

श्री नवग्रहपिडाहरनस्‍तोत्रम्

श्री गणेशाय नम:॥ ग्रहाणामादिरादित्‍यो लोकराक्षणकारक:। विषमस्‍थानसंभूतां पीडां हरतु मे रवि:॥१॥ रोहिणीश: सुधामूर्ति सुधागात्र: सुधाशन:। विषमस्‍थानसंभूतां पीडां हरतु मे विधु:॥२॥ भूमिपुत्रो महातेजा जगतां भयकृत्‍सदा। वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु मे कुज:॥३॥ उत्‍पातरूपो जगतां चन्‍द्रपुत्रो महाद्युति:। सूर्यप्रियकरो विद्वान्‍पीडां हरतु मे बुध:॥४॥ देवमन्‍त्री विशालाक्ष: सदा लोकहिते रत:। अनेकशिष्‍यसंपूर्ण: पीडां हरतु मे गुरू:॥५॥ दैत्‍यमंत्री गुरूस्‍तेषां प्राणदश्र्च महामति:। प्रभुस्‍ताराग्रहाणां च पीडां हरतु मे श्रृगु:॥६॥ सुर्यपुत्रो दीर्घदेहो विशालाक्ष: शिवप्रिय:। दीर्घचारा: प्रसन्‍नात्‍मा पीडां हरतु मे शनि:॥७॥ महाशिरा महावक्रो दीर्घदंष्‍ट्रो महाबल:। अतनुश्र्चोर्ध्‍वकेशश्र्च पीडां हरतु मे शिखी॥८॥ अनेकरूपेवर्णैश्र्च शतशेऽथ सहस्‍त्रश:। उत्‍पादरूपो जगतां पीडां हरतु मे तम:॥९॥

इति नवग्रहपीडांहरणस्‍तोत्रंम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Related Posts Plugin for WordPress, Blogger...